Udyoga Dattapadi
Udyoga Dattapadi
समस्या १५
कोर-कंपनी-एचार-सीजी-पदैः दत्तपदीं रचयत।
आङ्ग्ला-ऽनुवादः
This challenge is a dattapadī, where you need to fit four of the given words in your verse. the 4 words for this challenge are: Core (कोर्), Company (कंपनी), HR (एचार्), CG (सीजी). For example, कोर can be fit into the verse by writing something like बालको रमते। It is permissable to use either of the hrasva or dīrgha svaras for this challenge. that is सिजि, सीजी सीजि are all valid
समाधानानि
परसेनां प्रविद्यासं गुप्तां तमसि जीविनीम्।
हे चाराः! कोऽरिमित्थं वोऽकम्पनीयं करिष्यति?— अनिकेतः गणेशः (Aniketh Ganesh) | श्लोकः
अन्वयः
अकम्पनीयं प्लवगस्य पुच्छं
दृष्ट्वा वने चारुमतिः स भीमः।
उवाच को रूपधरोऽसि जीर्ण-
देहोऽपि चक्ष्वाऽद्वयशक्तिमांस्त्वम्?॥— पक्षालः नागडा (Pakshal Nagda) | उपजातिः
अन्वयः
तटे चारुमुखी कान्ता सकम्पनीरवर्षिणी।
चकोरनयना रम्या प्रेयसी जीवतीच्छया॥— अथर्वः फाटकः (Atharva Phatak) | श्लोकः
अन्वयः
हे चारुरङ्गनाथ त्वम् द्रासि जिष्णव जिम्हगे।
अकम्प नील विष्णो को रक्षति मे धृतिम्पर:॥
अन्वयः
रोदसीजीवनंस्वस्व कंपनीक्षतेचरणेरिपुः।
कोरणेचारुमायावी द्वारकाधिपमायया॥
अन्वयः
हे चारूमुख हेकृष्ण त्वमसि जीवितं मम।
प्रकम्पनीयारिम् हत्वा को रक्षति त्वदन्यतः॥— श्रीवात्सवः (Srivatsav) | श्लोकः
अन्वयः
This post is licensed under CC BY 4.0 by the author.